
नाम्नः माहात्म्यम्
श्रीरामस्य लङ्काभियानसमयः । नलनिलयोः मार्गदर्शने सागरे सेतुनिर्माणम् आरब्धम् । सुविशालेषु प्रस्तरखण्डेषु रामनाम विलिख्य स्थापनेन ते जले अनिमग्नाः सन्तः स्थिरतया तिष्ठन्ति स्म । तत् दृष्ट्वा श्रीरामः सागरतटे कार्यरतेभ्यः वानरेभ्यः किञ्चित् दूरं गतवान् । भूम्याः एकां शिलाम् उन्नीय तां सागरजले निक्षिप्तवान् । आश्चर्यम्! शिला तु पूर्णतया सागरजले निमग्ना जाता । एतत् सर्वं दृष्टवान् हनूमान् एवं कथयति "प्रभो! अस्य एषः एव अर्थः यत् भवान् यं त्यजति तस्य पतनं निश्चितमेव" इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) During Lord Rama's campaign to Lanka, Nala and Nila began building a bridge across the ocean. Huge stones inscribed with Rama's name floated steadily on the water. Seeing this, Lord Rama quietly picked up a stone and threw it into the sea. To everyone's surprise, it sank immediately. Watching this, Hanuman smiled and said, "Lord, this teaches us one truth - whoever is abandoned by You is certain to fall".
Audio and video play straight from the show's own hosting. PodSubs stores and serves no media.

